ब्रह्मवादिनी परम्परापुनरुत्थानप्रक्रिया

Share:

भारतीयसमाजः सङ्क्रमणसन्धिकाले यात्रां निर्वर्तयन्नस्ति । एकत्र घ्ज्ल्ळ् ब्झ् ळ्ण्ज् ज्ग्ल्ळ् इति रूपेण पौर्वात्यार्षपरम्परामूलतः वेदधारा-योगधारा-संस्कृतधारा-विज्ञानधाराश्च समाजे प्रवहन्ति । अन्यत्र च घ्ज्ल्ळ् ब्झ् ळ्ण्ज् ष्ज्ल्ळ् रूपेण तन्त्रज्ञानधारा-भोगजीवनधारा-पाश्चात्तीकरणधारा-आङ्ग्लव्यामोहधारा इति धाराः प्रवहन्ति । भारतदेशे सहस्रं वर्षाणां कालः दास्यकलङ्कितः आसीत् । इदानीं स्वातन्त्र्यसूर्योदयात्परं एकत्र संस्कृतिरश्मयः भारतभुवं पावनीकुर्वन्ति । अन्यत्र राजकीयस्वातन्त्र्ये प्राप्ते सत्यपि जनमानसे भाषाविषये, नीतिविषये, अनुशासनविषये, भूषाविषये परकीयानुकरणमेव अनुवर्तते ।

अन्धं तमः प्रविशन्ति……
परिवारः एव भारतीयजीवनधारायाः मूलं स्रोतः । तस्मिन् घटके माता एव देवता । “सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते” (मनुस्मृतिः२.१४५) । । अतः हिन्दूसमाजः मातृप्रधानः इति वयं सगौरवं भावयामः तथैव व्यवहरामश्च । भगवान् श्रीकृष्णः “कीर्तिश्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा”(भ.गी-१०.३४) इति गीतायां उद्घोषणं दत्वा एतादृशगुणगणैः युक्ताः नार्यः समाजे वन्दनीयाः, तासां रूपेणाहं जनार्दनः जनोपकारकं कार्यं कुर्वन् भवामि । एतादृशमातरः समाजे मम रूपाः इति स्पष्टमाह । । इतिहासे शिवाजीमाता जीजाबायी, पद्मिनी, अककमहादेवी, ओनके ओबव्व इत्याद्याः नार्यः देशस्य रक्षणे बद्धादराः, अस्य समाजस्य उत्थानाय सहपथिका बभूवुः । किन्तु भारतस्य वार्तमानिकी दशा अन्धेन तमसा आवृता वर्तते ।

इदानीं पाश्चात्यप्रभाविताः नार्यः कुकृतिमाध्यमप्रभावात् (न्ग्भ्ळ्ब्भ्, प्ब्घ्त्न्ज्) इति यन्त्रपारतन्त्र्यात् अमेरिकसंस्कृत्या प्रभाविताः वीथिषु वीथिषु सञ्चरन्ति । मानधनाः महिलाः मानहीनाः भवन्ति चेत् मानसम्माननस्य का कथा? सर्वजीवधरित्री भूमिरेव स्खलति चेत् जीविनामुद्धारं कः कुर्यात्?

तत् त्वं पूषन् अपावृणु…….
पुनरुत्थानस्य नूतनाध्यायः आरब्धः । संस्कृतं नाम संस्कृतेः मूलं, ज्ञानविज्ञानस्य आकरः। संस्कृतं ये अधीयते ते संस्कृतिमन्ताः भवेयुरिति इदानीमपि समाजः अपेक्षते । व्यवहारे संस्कृतं प्रयुञ्जानः भाषामाध्यमेन जानपदभाषां संस्कुर्युः। संस्कृतभाषायां विद्यमानं संस्कृतवा‰यमधीत्य संस्कृतच्छात्राः उदात्तचरिताः भवेयुः। संस्कृते विज्ञानम् अधीत्य संस्कृतज्ञाः भौतविज्ञाने, रसायनविज्ञाने योगायुर्वेदविज्ञाने, ज्योतिर्मनोविज्ञाने संशोधनं कृत्वा अस्वस्थसमाजाय स्वास्थ्यं प्रदद्युः । संस्कृतज्ञाः वेदवेदान्तवेदाङ्गद्वारा जगति सङ्क्रान्तिमानयेयुः

“विद्याः समस्ताः तव देवि भेदाः स्त्रियः समस्ताः सकलाः जगत्सु” इति सप्तशत्यां उक्तप्रकारेण यस्मिन् युगे मातृत्वस्य उच्चादर्शभूता ब्रह्मवादिनीपरम्परा रक्षिता भवति सः समाज एव परमवैभवयुक्तः ।

वेदकाले अनेके ऋषिश्रेष्ठा: स्वजीवने वेदाध्ययनम्-अध्यापनं च व्रतरूपेण स्वीकुर्वन्ति स्म । तान् ब्रह्मवादिन: इत्याह्वयन्ति स्म । न केवलं पुरुषा: अपि तु स्त्रियोऽपि एतादृशं जीवनं अनुसरन्ति स्म । ता: ब्रह्मवादिन्य: इत्याहूयन्ते स्म ।

तत्काले स्त्री-पुरुषेषु जीवनपद्धत्यां द्वैविध्यम् अवर्तत ।

पुरुषेषु नैष्टिक ब्रह्मचारी-उपकुर्वाण इति चेत्, स्त्रीषु ब्रह्मवादिनी-सद्योवधू इति

जीवने अध्ययनम् अध्यापनमेव लक्ष्यीकृत्य ये जीवन्ति ते एव नैष्टिकब्रह्मचारिण: । ब्रह्मचर्याश्रमे वेदान् शास्त्रान् च अधीत्य सूक्ते काले विवाहिता: ये गृहस्थाश्रमं प्रविशन्ति स्म, ते एव उपकुर्वाणाः ।

स्त्रीष्वपि अध्ययनम्-अध्यापनमेव लक्ष्यीकृत्य या: जीवन्ति ता एव ब्रह्मवादिन्य:, सूक्ते काले विवाहादिभि: या: गृहस्थाश्रमं प्रविशन्ति, ता: सद्योवध्व: इति ।

द्विविधा स्त्रियो ब्रह्मवादिन्य: सद्योवध्वश्च । ब्रह्मवादिनीनां उपनयनं अग्निबन्धनवेदाध्ययनं स्वगृहे भिक्षाचर्या भवति स्म इति पराशर संहिताया: पौराणिक भाष्यकारेण मध्वाचार्येण उक्तम् ।

वेदोपनिषत् काले यथा पुरुषाणां, तद्वत् स्त्रीणामपि श्रेष्ठं स्थानमासीत् । स्त्रीणामपि उपनयनसंस्कार:,तत् समनन्तरमेव वेदाध्ययनमपि आसीत् ।“ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ” (अथर्ववेद:११.५.१८)

गार्गी, मैत्रेयी, विश्ववारा, वाक्, अरुन्धती, अनसूया इत्याद्या: अस्मिन् मार्गे अग्रं पदं वहन्ति एता: न केवलं ब्रह्मवादिन्य: अपि तु स्वतप:शक्त्या अनेकान् वेदमन्त्रानपि आविष्कृत्य मन्त्रद्रष्ट्र्य: बभूवु: । तासु घोषा,अपाला, सर्पराज्ञी सावित्री इत्याद्या: ऋषिका: आध्यात्मिकताया: अन्ततो गत्वा वेदानां रहस्यमपि ज्ञातवत्य: । पाणिनीय व्याकरणशास्त्रे आचार्य:, आचार्याणीआचार्या इति रूपाणि दृश्यन्ते । अत्र आचार्याणी इति स्त्रीिङ्गे ङीष् प्रत्यय: भवति । आचार्या इत्यस्य स्त्रीिङ्गे टाप् प्रत्यय: विधीयते । आचार्याणी इत्युक्ते गुरुपत्नी इत्यर्थ: । परन्तु आचार्या इत्युक्ते ब्रह्मवादिनी इत्येव अर्थ: भवति । अनेन ज्ञायते यत्, ब्रह्मवादिनी परम्परा तदानीम् आसीत् इति । पातञ्जलमहाभाष्ये उक्तै: आपिशलमधीते आपिशला ब्राह्मणी, काशकृत्स्नमधीते काशकृत्स्ना ब्राह्मणी इत्यादि उदाहरणै:, स्त्रीभि: वेदाध्ययनेन सह व्याकरणादिशास्त्रेष्वपि पूर्णपरिश्रमेण अध्ययनम्- अध्यापनं च क्रियते स्म इति वेद्यते ।

वेदे एव उक्तमस्ति यत्- “चतुष्कपर्दा युवति: सुपेशा” इति । धर्म- अर्थ- काम- मोक्षरूपाणि जीवनस्य चत्वारि तत्त्वानि अपि स्त्री जानाति स्म । वाचक्नवी गार्गी तु प्रसिद्धा ब्रह्मवादिनी बभूव । इयम् अविवाहिता, परन्तु आध्यात्मिक मार्गे आध्यात्मदर्शनस्य द्रड्ढ्री अपि आसीत् । एतादृश्या: मुमुक्षो: गार्ग्या: ज्ञानपराकाष्ठा अत्यन्ता उन्नता आसीत् । इयं मिथिलाधिपते: जनकस्यास्थाने ब्रह्मवेत्तारं श्रेष्ठं याज्ञवल्क्यमेव आत्मतत्त्वविषये प्रश्नान् अपृच्छत् । अनेन अस्या: ज्ञानपिपासा कीदृशी आसीदिति विदितं भवति । अपरा प्रसिद्धा ब्रह्मवादिनी नाम याज्ञवल्क्यात् मोक्षपत्नीत्वं प्राप्तवती मैत्रेयी । याज्ञवल्क्य: एतां सम्पत्ते: ईश्वरीं चिकीर्षु:, परं सा मैत्रेयी याज्ञवल्क्यमपृच्छत्-“येनाहं नामृता स्यां किमहं तेन कुर्याम् यदेव भवान् वेद तदेव ब्रूहीति” । मण्डनमिश्रस्य पत्नी उभयभारती तु शङ्कराचार्यस्य समक्षमे मण्डनमिश्रस्य यदा पराजय: भविष्यति, तदा स्वयं शास्त्रार्थार्थं सिद्धा भविष्यति । उभयो: वादे निर्णायिका रूपेण निर्णयमपि प्रयच्छति ।

एवं ज्ञानश्रेष्ठा: आदर्शभूता: अनेका: ब्रह्मवादिन्य: मातर: अस्यामेव भारतभूमौ सम्भूता: इत्येतदस्माकं सौभाग्यम् । कालक्रमेण एषा परम्परा ह्रासा सञ्जाता । कारणं मध्यकालीन भारते जनजीवनस्योपरि विदेशीयानाम् आक्रमणम् । तदारभ्य एव स्त्रीणां गौरवोऽपि न्यून: जात: । स्त्री नाम केवलं भोगवस्तु इति भाव्यते जनै: । भारतं स्वतन्त्रं चेदपि ईदृशी भावना जनमानसात् न दूरङ्गता । स्वतन्त्रा: चेदपि परकीयानाम् अनुकरणमेव अस्माकं जीवनस्य साफल्यमिति भावयन्ति इदानीन्तनयुवान:, तद्वदेव जीवनमपि कुर्वन्ति । एष: विपर्यास एव ।

काल: परिवर्तित: । अधुना स्त्रिय: सबला: स्वतन्त्रा:, परन्तु अस्माकं संस्कृति:, परम्परा, पारम्परिक आचरणानि च ताभि: विस्मृतानि । अस्मिन् युगेऽपि काश्चन स्त्रिय: भारतदेशे एव

Leave a Reply

Your email address will not be published. Required fields are marked *