एन्.रङ्गनाथशर्मा

अस्मिन् दिने गुरुकुलं मया समीक्षितम् । अध्यापिकाः विद्यार्थिन्यश्च दृष्टाः । विद्यार्थिनीभिः दुर्गासूक्तं सस्वरं पठितम् । कार्यकर्त्रीणां सौजन्यं संस्कृताध्ययनप्रवणं च दृष्ट्वा महान् मे प्रमोदः अभूत् । उदारैः धनिकैः यथाशक्ति साहाय्यधनं प्रदाय गुरुकुलमिदं सर्वथा प्रोत्साहनीयम् इति मे निश्चितास्ति मतिः ।

एन्.रङ्गनाथशर्मा