डा॥ मनमोहन् उपाध्याय

वयं मैत्रेयीगुरुकुलं द्रष्टुमागताः । गुरुकुलं दॄष्ट्वा अतीव सन्तोषः सञ्जातः । अत्र वयं विंशति घण्टाः यावत् उषित्वा सूक्ष्मतया निरीक्षणं कृतवन्तः । गुरुकुलमिदम् अद्वितीयं विद्यते । अत्रत्य वातावरणं बहु उत्तममस्ति । एतादृशानां गुरुकुलानां माध्यमेन भारतं पुनर्वैभवं प्राप्स्यति इति दृढो विश्वासः । गुरुकुलमिदं वर्धतां सततमिति अस्माकं शुभकामनाः ।

श्री निरञ्जन् शर्मा
क्षेत्रीयसङ्घटनमन्त्री विद्याभारती

श्री जयप्रकाश गौतमः
क्षेत्रसङ्घटनमन्त्री संस्कृतभारती